ज्ञानवतोऽपि यावज्जीवादिश्रुतिवशादग्निहोत्रादि कर्तव्यमित्याशङ्क्याऽऽह –
प्राप्येति ।
यथोक्तां चतुष्कोटिविनिर्मुक्तामिति यावत्। समस्तत्वं ज्ञातव्यशेषशून्यत्वं परिपूर्णज्ञप्तिरूपत्वम्।
तत्र ब्राह्मण्यपदप्रयोगे प्रमाणमाह –
स ब्राह्मण इति ।
स विद्वानपरोक्षीकृतब्रह्मसतत्त्वः सन् फलावस्थो मुख्यो ब्राह्मणो भवतीत्यर्थः। ब्राह्मणस्य ब्रह्मविदो विद्याफलावस्थस्यैव स्वभावो महिमेत्युक्तो निर्विकारो वृद्धिह्रासाभावादेकरूपो भवतीति वाक्यान्तरस्यार्थः।
तदेव पदं विशिनष्टि –
अनापन्नादिमध्यान्तमिति ।
तद् व्याकरोति –
आदीति ।
अन्वयं दर्शयन्नवशिष्टं व्याचष्टे –
तदेव प्राप्येति ।
ज्ञानवान् फलावस्थः सन् कृतकृत्यो न तस्य किञ्चिदस्ति कर्त्तव्यमित्यस्मिन्नर्थे भगवद्वाक्यं प्रमाणयति –
नैव तस्येति ॥८५॥