यावज्जीवादिश्रुतेरविद्वद्विषयत्वाद्विदुषो नाग्निहोत्रादि कर्तव्यमित्युक्तम्। इदानीं तस्यापि नियोगतोऽस्ति कर्तव्यमित्याशङ्क्याऽऽह –
विप्राणामिति ।
ब्रह्मविदां ब्राह्मणानामेष विनयः स्वभावः। अतो न नियोगाधीनां कर्तव्यतामधिकरोति। शमोऽपि स्वाभाविको न नियोगेन क्रियते। दमोऽपि स्वभावसिद्धत्वान्न नियोगमपेक्षते। एवं कूटस्थमात्मतत्त्वं विद्वान् पुमानशेषविक्रियाशून्यब्रह्मस्वरूपेण तिष्ठतीत्यर्थः।
अक्षरार्थं कथयति –
विप्राणामित्यादिना ।
तमेव स्वाभाविकं विनयं विवृणोति –
यदेतदिति ।
एष एवेत्यात्मस्वभावो गृह्यते॥८६॥