परमतनिराकरणमुखेनाऽऽत्मतत्त्वमवधारितम्। अधुना स्वप्रक्रिययाऽवस्थात्रयोपन्यासमुखेनापि तदवधारयितुमवस्थाद्वयमुपन्यस्यति –
सवस्त्विति ।
वृत्तानुवादपूर्वकं प्रकरणशेषस्य तात्पर्यं दर्शयति –
एवमिति ।
शिष्यस्याध्यारोपदृष्टिमाश्रित्य जाग्रदादिपदार्थपरिशुद्धिपूर्वको बोधप्रकारः स्वप्रक्रिया; तया तस्यैवाऽऽत्मतत्त्वस्य प्रदर्शनपरो ग्रन्थशेष इत्यर्थः।
तत्र जागरितमुदाहरति –
सवस्त्विति ।
यद्धि प्रातिभासिकं व्यावहारिकं च स्थूलमर्थजातमादित्यादि देवतानुगृहीतैरिन्द्रियैरुपलभ्यते तज्जागरितमित्यर्थः।
द्वयमित्यस्यार्थमाह –
शास्त्रादीति ।
तत्र श्लोके लोकप्रसिद्धमित्येतदुच्यते –
लौकिकमिति ।
तद् व्याचष्टे –
लोकादिति ।
न केवलमिदं जागरितं लोकप्रसिद्धम्।
किं तु वेदान्तेष्वपि परम्परया ज्ञानोपायत्वेन प्रसिद्धमित्याह –
एवं लक्षणमिति ।
स्वप्नोपन्यासपरमोत्तरार्धं योजयति –
अवस्त्विति ।
बाह्येन्द्रियप्रयुक्तो व्यवहारः संवृतिशब्दार्थः। सोऽपि स्थूलार्थवन्न स्वप्ने सम्भवति। तथा च बाह्येषु करणेषूपसंहृतेषु जागरितवासनानुसारेण मनसस्तदर्थाभासाकारावभासनं स्वप्नशब्दितमित्यर्थः।
शुद्धमित्यस्य केवलमिति पर्यायं गृहीत्वा विवक्षितमर्थमाह –
प्रविविक्तमिति ।
तस्यापि लोकप्रसिद्धत्वं लौकिकमित्यनेनोक्तं, तद्विवृणोति –
सर्वप्राणीति ॥८७॥