माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् ।
ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ॥ ८८ ॥
अवस्त्वनुपलम्भं च ग्राह्यग्रहणवर्जितमित्येतत् ; लोकोत्तरम् , अत एव लोकातीतम् । ग्राह्यग्रहणविषयो हि लोकः, तदभावात् सर्वप्रवृत्तिबीजं सुषुप्तमित्येतत् । एवं स्मृतं सोपायं परमार्थतत्त्वं लौकिकं शुद्धलौकिकं लोकोत्तरं च क्रमेण येन ज्ञानेन ज्ञायते, तत् ज्ञानं ज्ञेयम् एतान्येव त्रीणि, एतद्व्यतिरेकेण ज्ञेयानुपपत्तेः । सर्वप्रावादुककल्पितवस्तुनोऽत्रैवान्तर्भावात् ; विज्ञेयं यत्परमार्थसत्यं तुर्याख्यमद्वयमजमात्मतत्त्वमित्यर्थः ; सदा सर्वदैव, तल्लौकिकादि विज्ञेयान्तं बुद्धैः परमार्थदर्शिभिर्ब्रह्मविद्भिः प्रकीर्तितम् ॥

सम्प्रति सुषुप्तं दर्शयति –

अवस्त्विति ।

स्थूलं सूक्ष्मं च वस्तु विषयभूतं यत्र न विद्यते तत्तथा।

इन्द्रियार्थसम्प्रयोगजन्यो वा स्थूलार्थावगाहि वासनात्मको वा यत्रोपलम्भो न सम्भवति तदशेषविशेषविज्ञानशून्यं सुषुप्तमिति विशिनष्टि –

अनुपलम्भं चेति ।

नन्विदं कारणात्मना बुद्धेरवस्थानम्। न च कारणं लोके प्रसिद्धम्।

कार्यस्यैवावस्थाद्वयात्मकस्य तथात्वादित्यभिप्रेत्याऽऽह –

लोकोत्तरमिति ।

तस्य साक्षिप्रसिद्धत्वं विवक्षित्वोक्तम् –

इति स्मृतमिति ।

ज्ञानज्ञेयात्मकावस्थात्रयं तुरीयं च परमार्थतत्त्वं विद्वदनुभवसमधिगम्यमित्याह –

ज्ञानमिति ।

श्लोकगतं पदद्वयमनूद्य विवक्षितमर्थं कथयति –

अवस्त्विति ।

ग्राह्यग्रहणविभागवर्जितत्वादेव कुतो लोकातीतत्वमित्याशङ्क्याऽऽह –

ग्राह्येति ।

सुषुप्तं चेदलौकिकं कथं तदवगम्यतामित्याशङ्क्याऽऽह –

सर्वप्रवृत्तीति ।

अवस्थाद्वयबीजं सुषुप्तमित्येतत्प्रसिद्धं शास्त्रविदामित्याह –

एवमिति ।

अवस्थात्रयमेवमुक्त्वा ज्ञानपदार्थं कथयति –

सोपायमिति ।

ज्ञानमत्र मनोवृत्तिरूपं विवक्षितम् अवस्थात्रयातिरिक्तमपि परीक्षकपरिकल्पितं ज्ञेयं सम्भवतीत्याशङ्क्याऽऽह –

सर्वेति ।

सर्वैरेव प्रावादुकैः शुष्कतर्कजल्पनशीलैः परिकल्पितस्य कार्यकारणादिरूपवस्तुनोऽवस्थात्रये नियमेनान्तर्भावाज्ज्ञेयान्तरं नास्तीत्यर्थः।

ज्ञेयमेव विशेषेण ज्ञेयं विज्ञेयमुच्यते, तेन तदपि नावस्थात्रयातिरिक्तमस्तीत्याशङ्क्या‌ऽऽह –

विज्ञेयमिति ।

उपायोपेयभूते यथोक्तेऽर्थे विदुषामभिमतिमादर्शयति –

सदेति ॥८८॥