“आत्मनि विज्ञाते सर्वमिदं विज्ञातम् भवति” इति श्रुत्या यत्प्रतिज्ञातं तदुक्तवस्तुज्ञाने फलतिति कथयति –
ज्ञाने चेति ।
ज्ञानज्ञेयवेदने विवक्षितं क्रममनुक्रामति –
पूर्वमित्यादिना ।
यत्पुनरवस्थात्रयातीतं तुरीयं तत्परिज्ञाने विवक्षितं क्रमं दर्शयति –
स्थानेति ।
तुर्ये विदिते सतीति सम्बन्धः।
तस्य स्थानत्रयात्मकद्वैताभावोपलक्षितत्वमाह –
अद्वय इति ।
जन्मादिसर्वविक्रियारहितत्वेन कौटस्थ्यं कथयति –
अज इति ।
कार्यसम्बन्धस्तत्र नास्तीति वक्तुं कारणभूताविद्यासम्बन्धाभावमभिदधाति –
अभय इति ।
यथोक्ततत्त्वज्ञानस्य परिपूर्णब्रह्मरूपेणावस्थानं फलमाह –
स्वयमेवेति ।
ज्ञानवतो यथोक्तं फलमर्चिरादिमार्गायत्तमिति शङ्कां वारयति –
इहेति ।
उक्तज्ञानवतो महाबुद्धित्वे हेतुमाह –
सर्वलोकेति ।
ज्ञानवतो यथोक्तं ज्ञानं कदाचिद्भवदपि कालान्तरेऽभिभूतमसत्कल्पं भविष्यतीत्याशङ्क्याऽऽह –
एवंविद इति ।
श्रुत्याचार्यप्रसादाद्विदिते स्वरूपे स्वरूपस्फुरणस्य व्यभिचाराभावात् परिपूर्णज्ञाप्तिरूपता विदुषो भवतीत्युक्तं स्फुटयति –
न हीति ॥८९॥