अवस्थात्रयस्य ज्ञेयत्वनिर्देशात्परमार्थतोऽस्तित्वमाशङ्क्य परिहरति –
हेयेति ।
शङ्कोत्तरत्वेन श्लोकमवतार्य हेयशब्दार्थं व्याचष्टे –
लौकिकादीनामिति ।
तान्येव त्रीणि विभजते –
जागरितेति ।
पाण्डित्यं वेदान्ततात्पर्याभिज्ञत्वमद्वितीयवस्तुविचारचातुर्यपरिनिष्पन्नं श्रवणम्। बाल्यं दम्भदर्पाहङ्कारादिराहित्यम्, युक्तितः श्रुतार्थानुसन्धानकुशलत्वम्। मौनं मुनेः कर्म ज्ञानाभ्यासलक्षणं निदिध्यासनशब्दितम्। तान्येतान्याप्तव्यानि।
यद्यपि ज्ञेयस्य विज्ञेयत्वं युक्तं तथाऽपि कथं हेयादीनां विज्ञेयत्वमित्याशङ्क्याऽऽह –
उपायत्वेनेति ।
तदेव प्रकटयितुं प्रथमत इत्युक्तम्।
उत्तरार्धं व्याचष्टे –
तेषामिति ।
हेयादीनां रज्जुसर्पवदविद्याकल्पितत्वान्नास्ति परमार्थत्वशङ्केत्यर्थः॥९०॥