माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
प्रकृत्याकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः ।
विद्यते न हि नानात्वं तेषां क्वचन किञ्चन ॥ ९१ ॥
परमार्थतस्तु प्रकृत्या स्वभावतः आकाशवत् आकाशतुल्याः सूक्ष्मनिरञ्जनसर्वगतत्वैः सर्वे धर्मा आत्मानो ज्ञेया मुमुक्षुभिः अनादयः नित्याः । बहुवचनकृतभेदाशङ्कां निराकुर्वन्नाह — क्वचन क्वचिदपि किञ्चन किञ्चित् अणुमात्रमपि तेषां न विद्यते नानात्वमिति ॥

यदुक्तं ज्ञेयं चतुष्कोटिवर्जितं परमार्थतत्त्वमिति, तदिदानीं स्फुटयति –

प्रकृत्येति ।

बहुवचनप्रयोगप्राप्तं दोषं प्रत्यादिशति –

विद्यत इति ।

कल्पितभेदनिबन्धनं बहुवचनमित्यर्थः। क्वचनेति देशकालावस्थाग्रहणम्। अणुमात्रमपीति कार्यकारणभावस्यांशांशिभावस्य चोपादानम्॥९१॥