ज्ञेयशब्दप्रयोगान्मुख्यमेव ज्ञेयत्वं प्राप्तं प्रत्युदस्यति –
आदिबुद्धा इति ।
यथोक्तरीत्या समुत्पन्नस्य ज्ञानस्य फलमाह –
यस्येति ।
प्रथमपादस्य तात्पर्यमाह –
ज्ञेयताऽपीति ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेति ।
पदान्तरस्यार्थं कथयति –
न चेति ।
निश्चितस्वस्वरूपत्वमेव व्यतिरेकद्वारा स्फोरयति –
नेत्यादिना ।
न खल्वात्मा स्वसत्तायामेवं नैवमिति सन्दिह्यमानस्वरूपो भवितुमलम्। तस्य स्फुरणाव्यभिचारात् तद्रूपत्वस्य प्रागेव साधितत्वादित्यर्थः।
द्वितीयार्धं व्याकरोति –
यस्येत्यादिना ।
आत्मस्वरूपस्य स्फुरद्रूपत्वं यथोक्तप्रकारः। बोधाख्यो निश्चयो बोधनिश्चयस्तस्मिन्निरपेक्षत्वं स्वार्थमन्यार्थं वा यस्य भवति सोऽमृतत्वाय कल्पत इति सम्बन्धः।
तदेव दृष्टान्तेन साधयति –
यथेत्यादिना ।
इतिशब्दो यथेत्यनेन सम्बध्यते॥९२॥