माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
वैशारद्यं तु वै नास्ति भेदे विचरतां सदा ।
भेदनिम्नाः पृथग्वादास्तस्मात्ते कृपणाः स्मृताः ॥ ९४ ॥
ये यथोक्तं परमार्थतत्त्वं प्रतिपन्नाः, ते एव अकृपणा लोके ; कृपणास्त्वन्ये इत्याह — यस्मात् भेदनिम्नाः भेदानुयायिनः संसारानुगा इत्यर्थः । के ? पृथग्वादाः पृथक् नाना वस्तु इत्येवं वदनं येषां ते पृथग्वादाः द्वैतिन इत्यर्थः । तस्मात्ते कृपणाः क्षुद्राः स्मृताः, यस्मात् वैशारद्यं विशुद्धिः तन्नास्ति तेषां भेदे विचरतां द्वैतमार्गे अविद्यापरिकल्पिते सर्वदा वर्तमानानामित्यर्थः । अतो युक्तमेव तेषां कार्पण्यमित्यभिप्रायः ॥

इदानीं मुमुक्षुप्ररोचनार्थमविद्वन्निन्दां दर्शयति –

वैशारद्यं त्विति ।

श्लोकस्य तात्पर्यं दर्शयति –

ये यथोक्तमिति ।

उत्तरार्धमादौ योजयति –

यस्मादिति ।

तस्मादित्युत्तरेणास्य सम्बन्धः।

प्रथमार्धमुक्तेऽर्थे हेतुत्वेन व्याचष्टे –

यस्मादित्यादिना ।

समनन्तरोक्तस्य यस्मादित्यस्यापेक्षितं पूरयति –

अत इति ॥९४॥