एवमविद्वन्निन्दां प्रदर्श्य विद्वत्प्रशंसां प्रसारयति –
अज इति ।
कूटस्थे वस्तुनि निर्विशेषे येषामसम्भावनाविपरीतभावनाविरहि निर्धारणरूपं विज्ञानं सम्भावनोपनीतमस्ति ते हि व्यवहारभूमौ महति निरतिशये तत्त्वे परिज्ञानवत्त्वान्महानुभावा भवन्तीत्यर्थः।
ननु तत्त्वविषयज्ञानस्य सर्वलोकसाधारणत्वात् तत्त्वज्ञानवतां किमिति प्रशंसा प्रस्तूयते तत्राऽऽह –
तच्चेति ।
श्लोकस्य तात्पर्यमाह –
यदिदमिति ।
यदित्युपक्रमात् तदमहात्मभिरनवगाह्यमिति योजनीयम्। अमहात्मत्वं क्षुद्रहृदयत्वम्।
तत्र हेतुः –
अपण्डितैरिति ।
अपाण्डित्यं विवेकरहितत्वम्। तत्र हेतुर्वेदान्तेत्यादिना सूच्यते। तेषां पौर्वापर्येण पर्यालोचनापरिचयपराङ्मुखैरित्यर्थः।
विचारचातुर्याभावादेव पदार्थवाक्यार्थविभागावगमशून्यत्वमाह –
अल्पप्रज्ञैरिति ।
तर्हि पारमार्थिके तत्त्वे केषामेवं मनीषा समुन्मिषेदित्याशङ्क्य येषां केषाञ्चिदेव तन्निष्ठानामित्याह –
ये केचिदिति ।
स्त्र्यादीनामुपनिषद्द्वारा ज्ञानाधिकाराभावेऽपि द्वारान्तरप्रयुक्तस्तदधिकारः सम्भवतीत्यभिप्रेत्यापीत्युक्तम्। तत्त्वज्ञानस्य दुर्लभत्वमभ्युपेत्य चेदित्युक्तम्।
चतुर्थपादं व्याचष्टे –
तच्चेति ।
ज्ञानवतां विज्ञातं परमार्थतत्त्वमन्येषामनवगाह्यमित्यत्र प्रमाणमाह –
सर्वभूतेति ।
सर्वेषां भूतानां ब्रह्मादीनां स्तम्बपर्यन्तानामात्मा परं ब्रह्म तद्भूतस्य विदुषः सर्वत्राऽऽत्मभूतस्य सर्वेषु निरुपचरितस्वरूपत्वादेव परमहितस्य परमप्रेमास्पदत्वादेव परमसुखात्मकस्य प्राप्यपुरुषार्थविरहिणो मार्गे देवा विद्यावन्तोऽपि पदमन्वेषमाणा विविधं मोहमुपगच्छन्तीत्यर्थः।
महात्मनो ज्ञानवतो गन्तव्यपदरहितस्य परिपूर्णस्य गतिरवगुन्तुमशक्येति निदर्शनवशेन विशदयति –
शकुनीनामिति ॥९५॥