माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः ।
ते हि लोके महाज्ञानास्तच्च लोको न गाहते ॥ ९५ ॥
यदिदं परमार्थतत्त्वम् , अमहात्मभिरपण्डितैर्वेदान्तबहिःष्ठैः क्षुद्रैरल्पप्रज्ञैरनवगाह्यमित्याह — अजे साम्ये परमार्थतत्त्वे एवमेवेति ये केचित् स्त्र्यादयोऽपि सुनिश्चिता भविष्यन्ति चेत् , त एव हि लोके महाज्ञानाः निरतिशयतत्त्वविषयज्ञाना इत्यर्थः । तच्च तेषां वर्त्म तेषां विदितं परमार्थतत्त्वं सामान्यबुद्धिरन्यो लोको न गाहते नावतरति न विषयीकरोतीत्यर्थः । ‘सर्वभूतात्मभूतस्य समैकार्थं प्रपश्यतः । देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः । शकुनीनामिवाकाशे गतिर्नैवोपलभ्यते’ इत्यादिस्मरणात् ॥

एवमविद्वन्निन्दां प्रदर्श्य विद्वत्प्रशंसां प्रसारयति –

अज इति ।

कूटस्थे वस्तुनि निर्विशेषे येषामसम्भावनाविपरीतभावनाविरहि निर्धारणरूपं विज्ञानं सम्भावनोपनीतमस्ति ते हि व्यवहारभूमौ महति निरतिशये तत्त्वे परिज्ञानवत्त्वान्महानुभावा भवन्तीत्यर्थः।

ननु तत्त्वविषयज्ञानस्य सर्वलोकसाधारणत्वात् तत्त्वज्ञानवतां किमिति प्रशंसा प्रस्तूयते तत्राऽऽह –

तच्चेति ।

श्लोकस्य तात्पर्यमाह –

यदिदमिति ।

यदित्युपक्रमात् तदमहात्मभिरनवगाह्यमिति योजनीयम्। अमहात्मत्वं क्षुद्रहृदयत्वम्।

तत्र हेतुः –

अपण्डितैरिति ।

अपाण्डित्यं विवेकरहितत्वम्। तत्र हेतुर्वेदान्तेत्यादिना सूच्यते। तेषां पौर्वापर्येण पर्यालोचनापरिचयपराङ्‌मुखैरित्यर्थः।

विचारचातुर्याभावादेव पदार्थवाक्यार्थविभागावगमशून्यत्वमाह –

अल्पप्रज्ञैरिति ।

तर्हि पारमार्थिके तत्त्वे केषामेवं मनीषा समुन्मिषेदित्याशङ्क्य येषां केषाञ्चिदेव तन्निष्ठानामित्याह –

ये केचिदिति ।

स्त्र्यादीनामुपनिषद्‌द्वारा ज्ञानाधिकाराभावेऽपि द्वारान्तरप्रयुक्तस्तदधिकारः सम्भवतीत्यभिप्रेत्यापीत्युक्तम्। तत्त्वज्ञानस्य दुर्लभत्वमभ्युपेत्य चेदित्युक्तम्।

चतुर्थपादं व्याचष्टे –

तच्चेति ।

ज्ञानवतां विज्ञातं परमार्थतत्त्वमन्येषामनवगाह्यमित्यत्र प्रमाणमाह –

सर्वभूतेति ।

सर्वेषां भूतानां ब्रह्मादीनां स्तम्बपर्यन्तानामात्मा परं ब्रह्म तद्भूतस्य विदुषः सर्वत्राऽऽत्मभूतस्य सर्वेषु निरुपचरितस्वरूपत्वादेव परमहितस्य परमप्रेमास्पदत्वादेव परमसुखात्मकस्य प्राप्यपुरुषार्थविरहिणो मार्गे देवा विद्यावन्तोऽपि पदमन्वेषमाणा विविधं मोहमुपगच्छन्तीत्यर्थः।

महात्मनो ज्ञानवतो गन्तव्यपदरहितस्य परिपूर्णस्य गतिरवगुन्तुमशक्येति निदर्शनवशेन विशदयति –

शकुनीनामिति ॥९५॥