किमिति मुख्ये बोद्धृत्वे सम्भाविते तदेव नेष्टमित्याशङ्क्य ज्ञानस्य विद्वद्दृष्ट्या विषयसम्बन्धासम्भवादित्याह –
क्रमत इति ।
किं च जीवानां ब्रह्मात्मना विभुत्वादाकाशवत्क्रियासमवायायोगान्न मुख्यं बोद्धृत्वं सेद्धुमलमित्याह –
सर्व इति ।
ज्ञानमात्रं पारमार्थिकं तत्रैव ज्ञातृज्ञेयादि कल्पितमिति सौगतमतमेव भवताऽपि संगृहीतमित्याशङ्क्याऽऽह –
ज्ञानमिति ।
तत्र पूर्वार्धाक्षराणि व्याकरोति –
यस्मादिति ।
यद्धि परमार्थदर्शिनो ज्ञानं तत्र विषयान्तरेषु क्रमते, किं तु सवितरि प्रकाशवदात्मन्येव प्रतिष्ठितं यस्मादिष्यते तस्मान्नास्मिन् मुख्यं बोद्धृत्वं सेद्धुमर्हतीत्यर्थः ।
परमार्थदर्शिनो विशेषणम् –
तायिन इति ।
तद्व्याचष्टे –
तायोऽस्यात्यादिना ।
आत्मनो मुख्यस्य बोद्धृत्वस्याभावे हेत्वन्तरम् –
सर्वे धर्मास्तथेति ।
तद्विभजते –
सर्व इत्यादिना ।
प्रकरणादावुक्तमेव किमर्थं पुनरिहोच्यते, तत्राऽऽह –
यदादाविति ।
तदिदमिहोपसंहृतमिति शेषः।
क्रमते न हीत्यादेरक्षरार्थमुपसंहरति –
आकाशकल्पस्येति ।
सर्वे धर्मास्तथेत्यस्यार्थं निगमयति –
तथेति ।
धर्मा न क्रमन्ते क्वचिदपीति शेषः। तथा च नाऽऽत्मनि मुख्यं बोद्धृत्वं, किं त्वौपचारिकमिति प्रकृतमुपसंहर्तुमितिशब्दः।
पूर्वार्धस्य तात्पर्यमाह –
आकाशमिति ।
ज्ञानमित्यादि व्याचष्टे –
ज्ञानेति ।
सकलभेदविकलं परिपूर्णमनादिनिधनं ज्ञप्तिमात्रमुपनिषदेकसमधिगम्यं तत्त्वमिह प्रतिपद्यते। मतान्तरे तु नैवमिति कुतो मतसाङ्कर्याशङ्काऽवकाशमासादयेदित्यर्थः॥९९॥