कल्पः सूत्रग्रन्थः । अनुष्ठेयक्रमः कल्प इत्यर्थः । अविद्याया अपगम एव परप्राप्तिरुपचर्यते । अविद्यापगमश्च ब्रह्मावगतिरेवेति व्याख्यातमस्माभिर्ज्ञातोऽर्थस्तज्ज्ञप्तिर्वाऽविद्यानिवृत्तिरित्येतद्व्याख्यानावसरे । अतोऽधिगमशब्दोऽत्र प्राप्तिपर्याय एवेत्याह —
न च परप्राप्तेरिति ।
साङ्गानां वेदानामपरविद्यात्वेनोपन्यासात्ततः पृथक्करणाद्वेदबाह्यतया ब्रह्मविद्यायाः परत्वं न संभवतीत्याक्षिपति –
नन्विति ।
“या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः”(मनु. १२-९५) इति स्मृतेः कुदृष्टित्वादनुपादेया स्यादित्यर्थः । विद्याया वेदबाह्यत्वे तदर्थानामुपनिषदामप्यृग्वेदादिबाह्यत्वं प्रसज्येतेत्यर्थः । वेदबाह्यत्वेन पृथक्करणं न भवति ।
किंतु वैदिकस्यापि ज्ञानस्य वस्तुविषयस्य शब्दराश्यतिरेकाभिप्रायेणेत्याह –
न वेद्यविषयेति ॥१.१.५॥