मुण्डकोपनिषद्भाष्यम्
प्रथमं मुण्डकम्द्वितीयः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः ।
यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९ ॥
किञ्च, अविद्यायां बहुधा बहुप्रकारं वर्तमानाः वयमेव कृतार्थाः कृतप्रयोजनाः इति एवम् अभिमन्यन्ति अभिमन्यन्ते अभिमानं कुर्वन्ति बालाः अज्ञानिनः । यत् यस्मादेवं कर्मिणः न प्रवेदयन्ति तत्त्वं न जानन्ति रागात् कर्मफलरागाभिभवनिमित्तम् , तेन कारणेन आतुराः दुःखार्ताः सन्तः क्षीणलोकाः क्षीणकर्मफलाः स्वर्गलोकात् च्यवन्ते ॥

स्वयमेवेति तत्त्वदर्श्युपदेशानपेक्षतया स्वमनोरथेनैवेत्यर्थः ॥१.२.८॥१.२.९॥