मुण्डकोपनिषद्भाष्यम्
प्रथमं मुण्डकम्द्वितीयः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३ ॥
तस्मै सः विद्वान् गुरुर्ब्रह्मवित् , उपसन्नाय उपगताय । सम्यक् यथाशास्त्रमित्येतत् । प्रशान्तचित्ताय उपरतदर्पादिदोषाय । शमान्विताय बाह्येन्द्रियोपरमेण च युक्ताय,

अक्षरणादिति।

अवयवान्यथाभावलक्षणपरिणामशून्यत्वात् ।

अक्षतत्वादिति ।

अक्षयत्वाच्चेति। अशरीरत्वाद्विकारशून्यत्वादित्यर्थः ॥१३॥

इति मुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डके द्वितीयः खण्डः ॥१.२॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डकं समाप्तम्॥१॥