मुण्डकोपनिषद्भाष्यम्
द्वितीयं मुण्डकम्प्रथमः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४ ॥
सङ्क्षेपतः परविद्याविषयमक्षरं निर्विशेषं पुरुषं सत्यम् ‘दिव्यो ह्यमूर्तः’ (मु. उ. २ । १ । २) इत्यादिना मन्त्रेणोक्त्वा, पुनस्तदेव सविशेषं विस्तरेण वक्तव्यमिति प्रववृते ; सङ्क्षेपविस्तरोक्तो हि पदार्थः सुखाधिगम्यो भवति सूत्रभाष्योक्तिवदिति । यो हि प्रथमजात्प्राणाद्धिरण्यगर्भाज्जायतेऽण्डस्यान्तर्विराट् , स तत्त्वान्तरितत्त्वेन लक्ष्यमाणोऽप्येतस्मादेव पुरुषाज्जायत एतन्मयश्चेत्येतदर्थमाह, तं च विशिनष्टि — अग्निः द्युलोकः, ‘असौ वाव लोको गौतमाग्निः’ (छा. उ. ५ । ४ । १) इति श्रुतेः । मूर्धा यस्योत्तमाङ्गं शिरः, चक्षुषी चन्द्रश्च सूर्यश्चेति चन्द्रसूर्यौ ; यस्येति सर्वत्रानुषङ्गः कर्तव्यः अस्येत्यस्य पदस्य वक्ष्यमाणस्य यस्येति विपरिणामं कृत्वा । दिशः श्रोत्रे यस्य । वाक् विवृताश्च उद्घाटिताः प्रसिद्धा वेदाः यस्य । वायुः प्राणो यस्य । हृदयम् अन्तःकरणं विश्वं समस्तं जगत् अस्य यस्येत्येतत् । सर्वं ह्यन्तःकरणविकारमेव जगत् , मनस्येव सुषुप्ते प्रलयदर्शनात् ; जागरितेऽपि तत एवाग्निविस्फुलिङ्गवद्विप्रतिष्ठानात् । यस्य च पद्भ्यां जाता पृथिवी, एष देवो विष्णुरनन्तः प्रथमशरीरी त्रैलोक्यदेहोपाधिः सर्वेषां भूतानामन्तरात्मा । स हि सर्वभूतेषु द्रष्टा श्रोता मन्ता विज्ञाता सर्वकरणात्मा ॥

सर्वेषां भूतानामिति ।

पञ्चमहाभूतानाम् । अन्तरात्मा स्थूलपञ्चभूतशरीरो हि विराडित्यर्थः। पञ्चाग्निद्वारेण । द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निदृष्टेः श्रुत्यन्तरचोदितत्वात्तद्द्वारेणेत्यर्थः ॥२.१.४॥२.१.५॥