मुण्डकोपनिषद्भाष्यम्
द्वितीयं मुण्डकम्प्रथमः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥
किञ्च, कर्मसाधनानि फलानि च तस्मादेवेत्याह — कथम् ? तस्मात् पुरुषात् ऋचः नियताक्षरपादावसानाः गायत्र्यादिच्छन्दोविशिष्टा मन्त्राः ; साम पाञ्चभक्तिकं साप्तभक्तिकं च स्तोभादिगीतिविशिष्टम् ; यजूंषि अनियताक्षरपादावसानानि वाक्यरूपाणि ; एवं त्रिविधा मन्त्राः । दीक्षाः मौञ्ज्यादिलक्षणाः कर्तृनियमविशेषाः । यज्ञाश्च सर्वे अग्निहोत्रादयः । क्रतवः सयूपाः । दक्षिणाश्च एकगवाद्या अपरिमितसर्वस्वान्ताः । संवत्सरश्च कालः कर्माङ्गभूतः । यजमानश्च कर्ता । लोकाः तस्य कर्मफलभूताः ; ते विशेष्यन्ते — सोमः यत्र येषु लोकेषु पवते पुनाति लोकान् यत्र च येषु सूर्यस्तपति । ते च दक्षिणायनोत्तरायणमार्गद्वयगम्या विद्वदविद्वत्कर्तृफलभूताः ॥

पाञ्चभक्तिकमिति ।

हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनाख्याः पञ्च भक्तयोऽवयवा यस्य तत्तथोक्तम् । साप्तभक्तिकमिति । हिङ्कारप्रस्तावाद्युद्गीथप्रतिहारोपद्रवनिधनाख्याः सप्त भक्तयो यस्य तत्तथोक्तम् । स्तोभोऽर्थशून्यो वर्णः । विश्वजित्सर्वमेधयोः सर्वस्वदक्षिणा । अत एकां गामारभ्य सर्वस्वान्ता दक्षिणा भवन्तीत्यर्थः ॥२.१.६॥