मुण्डकोपनिषद्भाष्यम्
द्वितीयं मुण्डकम्प्रथमः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १० ॥
एवं पुरुषात्सर्वमिदं सम्प्रसूतम् । अतो वाचारम्भणं विकारो नामधेयमनृतं पुरुष इत्येव सत्यम् ; अतः पुरुष एव इदं विश्वं सर्वम् । न विश्वं नाम पुरुषादन्यत्किञ्चिदस्ति । अतो यदुक्तं तदेवेदमभिहितम् ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति ; एतस्मिन्हि परस्मिन्नात्मनि सर्वकारणे पुरुषे विज्ञाते, पुरुष एवेदं विश्वं नान्यदस्तीति विज्ञातं भवतीति । किं पुनरिदं विश्वमित्युच्यते — कर्म अग्निहोत्रादिलक्षणम् ; तपः ज्ञानं तत्कृतं फलमन्यदेव तावद्धीदं सर्वम् ; तच्च एतद्ब्रह्मणः कार्यम् ; तस्मात्सर्वं ब्रह्म परामृतं परममृतमहमेवेति यो वेद निहितं स्थितं गुहायां हृदि सर्वप्राणिनाम् , सः एवं विज्ञानात् अविद्याग्रन्थिं ग्रन्थिमिव दृढीभूतामविद्यावासनां विकिरति विक्षिपति विनाशयति इह जीवन्नेव, न मृतः सन् हे सोम्य प्रियदर्शन ॥

यत्पृष्टं कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति तन्निरूपितम् । सर्वमिदं परमात्मनो जायते । अतस्तावन्मात्रं सर्वं तस्मिन्विज्ञाते विज्ञातं भवतीत्यविद्याक्षयफलाभिधानेनोपसंहृतमिति ॥२.१.९॥२.१.१०॥

इति मुण्डकोपनिषद्भाष्यटीकायां द्वितीयमुण्डके प्रथमः खण्डः ॥ २.१ ॥