मुण्डकोपनिषद्भाष्यम्
द्वितीयं मुण्डकम्द्वितीयः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः ।
ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥ ६ ॥
किञ्च, अरा इव यथा रथनाभौ समर्पिता अराः, एवं संहताः सम्प्रविष्टाः यत्र यस्मिन्हृदये सर्वतो देहव्यापिन्यः नाड्यः, तस्मिन्हृदये बुद्धिप्रत्ययसाक्षिभूतः स एषः प्रकृत आत्मा अन्तः मध्ये चरते चरति वर्तते । पश्यन् शृण्वन्मन्वानो विजानन् बहुधा अनेकधा क्रोधहर्षादिप्रत्ययैर्जायमान इव जायमानः अन्तःकरणोपाध्यनुविधायित्वात् ; वदन्ति हि लौकिका हृष्टो जातः क्रुद्धो जात इति । तमात्मानम् ओमित्येवम् ओङ्कारालम्बनाः सन्तः यथोक्तकल्पनया ध्यायथ चिन्तयत । उक्तं च वक्तव्यं शिष्येभ्य आचार्येण जानता । शिष्याश्च ब्रह्मविद्याविविदिषुत्वान्निवृत्तकर्माणो मोक्षपथे प्रवृत्ताः । तेषां निर्विघ्नतया ब्रह्मप्राप्तिमाशास्त्याचार्यः — स्वस्ति निर्विघ्नमस्तु वः युष्माकं पाराय परकूलाय ; कस्य ? अविद्यातमसः परस्तात् ; अविद्यारहितब्रह्मात्मस्वरूपगमनायेत्यर्थः ॥

कर्मसङ्गिजनसङ्गत्या कर्मश्रद्धा विषयश्रद्धा च वाक्यार्थज्ञानस्यावगमाय गत्यन्ततायाः प्रतिबन्धको विघ्नः स मा भूदित्याशंसनम् । न तु वाक्यार्थावगतौ निष्पन्नायां फलप्राप्तेर्विघ्नशङ्काऽस्तीत्यभिप्रेत्याऽऽह –

परस्तादिति ।

मदुपदेशादूर्ध्वमित्यर्थः ॥२.२.६॥