मुण्डकोपनिषद्भाष्यम्
द्वितीयं मुण्डकम्द्वितीयः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि ।
दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः ॥ ७ ॥
योऽसौ तमसः परस्तात्संसारमहोदधिं तीर्त्वा गन्तव्यः परविद्याविषयः, स कस्मिन्वर्तत इत्याह — यः सर्वज्ञः सर्ववित् व्याख्यातः । तं पुनर्विशिनष्टि — यस्यैष प्रसिद्धो महिमा विभूतिः । कोऽसौ महिमा ? यस्येमे द्यावापृथिव्यौ शासने विधृते तिष्ठतः ; सूर्याचन्द्रमसौ यस्य शासनेऽलातचक्रवदजस्रं भ्रमतः ; यस्य शासने सरितः सागराश्च स्वगोचरं नातिक्रामन्ति ; तथा स्थावरं जङ्गमं च यस्य शासने नियतम् ; तथा ऋतवोऽयने अब्दाश्च यस्य शासनं नातिक्रामन्ति ; तथा कर्तारः कर्माणि फलं च यच्छासनात्स्वं स्वं कालं नातिवर्तन्ते, स एष महिमा ; भुवि लोके यस्य स एष सर्वज्ञ एवंमहिमा देवः । दिव्ये द्योतनवति सर्वबौद्धप्रत्ययकृतद्योतने ब्रह्मपुरे । ब्रह्मणो ह्यत्र चैतन्यस्वरूपेण नित्याभिव्यक्तत्वात् ; ब्रह्मणः पुरं हृदयपुण्डरीकं तस्मिन्यद्व्योम, तस्मिन्व्योमनि आकाशे हृत्पुण्डरीकमध्यस्थे प्रतिष्ठित इवोपलभ्यते ; न ह्याकाशवत्सर्वगतस्य गतिरागतिः प्रतिष्ठा वान्यथा सम्भवति ॥

सर्वेश्वरत्वमनोमयत्वादिगुणविशिष्टब्रह्मणो हृदयपुण्डरीके ध्यानं च क्रममुक्तिफलं मन्दबह्मविदो विधीयत इति दर्शयितुमाह –

योऽसौ तमसः परस्तादित्यादिना ॥२.२.७॥