मुण्डकोपनिषद्भाष्यम्
द्वितीयं मुण्डकम्द्वितीयः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ९ ॥
अस्य परमात्मज्ञानस्य फलमिदमभिधीयते — हृदयग्रन्थिः अविद्यावासनामयो बुद्ध्याश्रयः कामः, ‘कामा येऽस्य हृदि श्रिताः’ (बृ. उ. ४ । ४ । ७), (का. उ. २ । ३ । १४) इति श्रुत्यन्तरात् । हृदयाश्रयोऽसौ, नात्माश्रयः । भिद्यते भेदं विनाशमुपयाति । छिद्यन्ते सर्वे ज्ञेयविषयाः संशयाः लौकिकानाम् आ मरणात् गङ्गास्रोतोवत्प्रवृत्ता विच्छेदमायान्ति । अस्य विच्छिन्नसंशयस्य निवृत्ताविद्यस्य यानि विज्ञानोत्पत्तेः प्राक्कृतानि जन्मान्तरे चाप्रवृत्तफलानि ज्ञानोत्पत्तिसहभावीनि च क्षीयन्ते कर्माणि, न त्वेतज्जन्मारम्भकाणि, प्रवृत्तफलत्वात् । तस्मिन् सर्वज्ञेऽसंसारिणि परावरे परं च कारणात्मना अवरं च कार्यात्मना तस्मिन्परावरे साक्षादहमस्मीति दृष्टे, संसारकारणोच्छेदान्मुच्यत इत्यर्थः ॥

अस्य परमात्मज्ञानस्येति ।

जीवन्मुक्तिफलस्याद्वैतवाक्यार्थावगमस्य क्रममुक्तिफलस्य चोपासनस्येत्यर्थ: । अविद्यावासनाप्रचयो भिद्यत इति कोऽर्थ: । किं बुद्धौ विद्यमानायामविद्यादिभेदो ज्ञानफलं किंवा तन्निवृत्तौ । नाऽऽद्यः । सत्युपादाने कार्यस्यात्यन्तोच्छेदासंभवात् । न द्वितीयः । ज्ञानस्याज्ञानेनैवसाक्षाद्विरोधप्रसिद्धेः । किञ्च । बुद्धिरप्यनादिः सादिर्वा । नाऽद्यः । “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च”(मु. उ. २ । १ । ३) इतिश्रुतिविरोधात् । नान्त्यः । प्रलये ब्रह्मज्ञानं विनैव बुद्धेर्नाशसंभवात्तदानर्थक्यप्रसङ्गात् । सादित्वे च बुद्वेरुपादानं साक्षाद्ब्रह्म चेत्तन्नाशं विनाऽत्यन्तोच्छेदो न स्यात् । माया चेत्सा दृष्टगतज्ञानेन नोच्छेदमर्हति । लौकिकमायाविगतमायाया द्रष्टृगतज्ञानेनोच्छेदादर्शनात् । किञ्च । बुद्धेरुच्छेदो न तस्याः फलं स्वनाशस्याफलत्वात् । नऽऽत्मनः । तस्य बुद्विप्रसङ्गाभावेन तदुच्छेदस्याफलत्वात् । किञ्चाऽऽत्मनोऽविद्याद्यनाश्रयत्वाभिधानं श्रुतिविरुद्धं प्रक्रमे– अविद्यायामन्तरे वर्तमाना इति श्रवणादुपसंहारे च – “अनीशया शोचति मुह्यमानः”(मु. उ. ३ । १ । २) इति श्रवणात् । बुद्धिगतमेवाविद्याद्यात्मन्यध्यस्यत इति चेदध्यस्यत इति कोऽर्थः । निक्षिप्यते भ्रान्त्या दृश्यते वा । नाऽऽद्यः । अन्यधर्मस्यान्यत्र निक्षेपासम्भवात् । भ्रान्त्या चेत्केन दृश्यते । न तावदात्मना तस्याविद्याश्रयत्वानङ्गीकारात् । न बुद्ध्या । बुद्धेरात्मविषयत्वासम्भवेन तद्गतदर्शनासम्भवात् । तद्भ्रान्तेश्च स्वाश्रयगतेन तत्त्वानुभवेन निवर्त्यत्वप्रसिद्धेर्बुद्धेरनुभवाश्रयत्वप्रसङ्गात् । तस्मान्नास्य भाष्यस्य सम्यगर्थं पश्याम इति चेदुच्यते। चित्तन्त्राऽनादिरनिर्वाच्याऽविद्या चैतन्यमवच्छिद्य स्वावच्छिन्नचैतन्यस्य बुध्द्यादितादात्म्यरूपेण विवर्तते । तस्याश्च ब्रह्मात्मतासाक्षात्कारनिवर्त्यरूपाङ्गीकारात्तन्निवृत्तौ तदुत्थहृदयग्रन्थिभेदः श्रुत्योच्यते । भाष्यकारीयं च बुद्ध्याश्रयत्वाभिधानमहङ्कारविशेषणत्वेनाविद्यादेर्व्याहारिकाभिप्रायेणाऽऽत्मानाश्रयत्वाभिधानं चाऽऽत्मनो निर्विकारत्वाभिप्रायम् । बाधितानुवृत्तिश्च प्रकटार्थे प्रादर्शीति जीवन्मुक्तिर्न विरुध्यते ॥२.२.८॥२.२.९॥