मुण्डकोपनिषद्भाष्यम्
द्वितीयं मुण्डकम्द्वितीयः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ११ ॥
कथं तत् ‘ज्योतिषां ज्योतिः’ इति, उच्यते — न तत्र तस्मिन्स्वात्मभूते ब्रह्मणि सर्वावभासकोऽपि सूर्यो भाति, तद्ब्रह्म न प्रकाशयतीत्यर्थः । स हि तस्यैव भासा सर्वमन्यदनात्मजातं प्रकाशयति ; न तु तस्य स्वतः प्रकाशनसामर्थ्यम् । तथा न चन्द्रतारकम् , न इमाः विद्युतः भान्ति, कुतोऽयमग्निः अस्मद्गोचरः । किं बहुना । यदिदं जगद्भाति, तत्तमेव परमेश्वरं स्वतो भारूपत्वात् भान्तं दीप्यमानम् अनुभाति अनुदीप्यते । यथा जलमुल्मुकादि वा अग्निसंयोगादग्निं दहन्तमनुदहति, न स्वतः ; तद्वत्तस्यैव भासा दीप्त्या सर्वमिदं सूर्यादि जगद्विभाति । यत एवं तदेव ब्रह्म भाति च विभाति च कार्यगतेन विविधेन भासा ; अतस्तस्य ब्रह्मणो भारूपत्वं स्वतोऽवगम्यते । न हि स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं शक्नोति । घटादीनामन्यावभासकत्वादर्शनात् भारूपाणां चादित्यादीनां तद्दर्शनात् ॥

उपसंहारमन्त्रस्य तात्पर्यमाह –यत्तज्ज्योतिषां ज्योतिरिति तेन ब्रह्मणा विविधं क्रियत इति तद्विकारं सर्वं जगत्सर्वं ब्रह्मैवेति बाधायां सामानाधिकरण्यं योऽयं स्थाणुः पुमानसावितिवदन्वयव्यतिरेकाभावपरिहारेण तावन्मात्रत्वं बोध्यते ॥२.२.११॥

इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां द्वितीयमुण्डके द्वितीयः खण्डः ॥२.२॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां द्वितीयं मुण्डकं समाप्तम् ॥२॥