मुण्डकोपनिषद्भाष्यम्
तृतीयं मुण्डकम्प्रथमः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति ॥ १ ॥
द्वा द्वौ, सुपर्णा सुपर्णौ शोभनपतनौ सुपर्णौ, पक्षिसामान्याद्वा सुपर्णौ, सयुजा सयुजौ सहैव सर्वदा युक्तौ, सखाया सखायौ समानाख्यानौ समानाभिव्यक्तिकारणौ, एवंभूतौ सन्तौ समानम् अविशेषमुपलब्ध्यधिष्ठानतया, एकं वृक्षं वृक्षमिवोच्छेदसामान्याच्छरीरं वृक्षं परिषस्वजाते परिष्वक्तवन्तौ । सुपर्णाविवैकं वृक्षं फलोपभोगार्थम् । अयं हि वृक्ष ऊर्ध्वमूलोऽवाक्शाखोऽश्वत्थोऽव्यक्तमूलप्रभवः क्षेत्रसंज्ञकः सर्वप्राणिकर्मफलाश्रयः, तं परिष्वक्तवन्तौ सुपर्णाविव अविद्याकामकर्मवासनाश्रयलिङ्गोपाध्यात्मेश्वरौ । तयोः परिष्वक्तयोः अन्यः एकः क्षेत्रज्ञो लिङ्गोपाधिवृक्षमाश्रितः पिप्पलं कर्मनिष्पन्नं सुखदुःखलक्षणं फलं स्वादु अनेकविचित्रवेदनास्वादरूपं स्वादु अत्ति भक्षयत्युपभुङ्क्ते अविवेकतः । अनश्नन् अन्यः इतरः ईश्वरो नित्यशुद्धबुद्धमुक्तस्वभावः सर्वज्ञः सत्त्वोपाधिरीश्वरो नाश्नाति । प्रेरयिता ह्यसावुभयोर्भोज्यभोक्त्रोर्नित्यसाक्षित्वसत्तामात्रेण । स तु अनश्नन् अन्यः अभिचाकशीति पश्यत्येव केवलम् । दर्शनमात्रं हि तस्य प्रेरयितृत्वं राजवत् ॥

पक्षिसामान्याद्वेति ।

वृक्षाश्रयणादिश्रवणादित्यर्थः। ऊर्ध्वमुत्कृष्टं ब्रह्म मूलमधिष्ठानमस्येत्यूर्ध्वमूलोऽवाञ्चः प्राणादयः शाखा इवास्येत्यवाक्शाखः । श्वः स्थानं नियन्तुमस्य न शक्यमित्यश्वत्थः । अव्यक्तमव्याकृतं मूलमुपादानमन्वयि तस्मात्प्रभवतीति तथोक्तो यावदज्ञानभावीत्यर्थः । अविद्याकामकर्मवासनानामाश्रयो लिङ्गमुपाधिर्यस्याऽऽत्मनः स जीवस्तथोक्तः स चेश्वरश्च तावित्यर्थः । सत्त्वं मायाख्यमुपाधिरस्येति सत्त्वोपाधिः। ज्ञानात्मकस्यामलसत्त्वराशेरितिह्युक्तम् ॥ ३.१.१ ॥