मुण्डकोपनिषद्भाष्यम्
तृतीयं मुण्डकम्प्रथमः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ३ ॥
अन्योऽपि मन्त्र इममेवार्थमाह सविस्तरम् — यदा यस्मिन्काले पश्यः पश्यतीति विद्वान् साधक इत्यर्थः । पश्यते पश्यति पूर्ववत् , रुक्मवर्णं स्वयञ्ज्योतिःस्वभावं रुक्मस्येव वा ज्योतिरस्याविनाशि ; कर्तारं सर्वस्य जगतः ईशं पुरुषं ब्रह्मयोनिं ब्रह्म च तद्योनिश्चासौ ब्रह्मयोनिस्तं ब्रह्मयोनिं ब्रह्मणो वा अपरस्य योनिं स यदा चैवं पश्यति, तदा स विद्वान्पश्यः पुण्यपापे बन्धनभूते कर्मणी समूले विधूय निरस्य दग्ध्वा निरञ्जनः निर्लेपो विगतक्लेशः परमं प्रकृष्टं निरतिशयं साम्यं समतामद्वयलक्षणाम् ; द्वैतविषयाणि साम्यान्यतः अर्वाञ्च्येव, अतोऽद्वयलक्षणमेतत् परमं साम्यमुपैति प्रतिपद्यते ॥

आवरणं विक्षेपश्च द्वयमविद्यायाः कार्यम् । तत्रेश्वरभावाप्रतिपत्तिरनीशावरणं शोचतीति विक्षेपस्तदुभयहेतुरनिर्वाच्यमज्ञानं मोहः तेन विशिष्टोऽनेकैरनर्थप्रकारैरहं करोमीत्यादिभिरविवेकतया तादात्म्यापन्नतयेत्यर्थः । आजवमनवरतं जवीभावं निकृष्टभावं लक्षणया लघुभावं कर्मवायुप्रेरिततया जवीभावं क्षैप्र्यमापन्नः पूर्ववदित्यभेदेनेत्यर्थः ॥३.१.२॥३.१.३॥