मुण्डकोपनिषद्भाष्यम्
तृतीयं मुण्डकम्प्रथमः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम् ॥ ६ ॥
सत्यमेव सत्यवानेव जयते जयति, नानृतं नानृतवादीत्यर्थः । न हि सत्यानृतयोः केवलयोः पुरुषानाश्रितयोः जयः पराजयो वा सम्भवति । प्रसिद्धं लोके सत्यवादिनानृतवाद्यभिभूयते न विपर्ययः ; अतः सिद्धं सत्यस्य बलवत्साधनत्वम् । किञ्च, शास्त्रतोऽप्यवगम्यते सत्यस्य साधनातिशयत्वम् । कथम् ? सत्येन यथाभूतवादव्यवस्थया पन्थाः देवयानाख्यः विततो विस्तीर्णः सातत्येन प्रवृत्तः । येन पथा हि अक्रमन्ति आक्रमन्ते ऋषयः दर्शनवन्तः कुहकमायाशाठ्याहङ्कारदम्भानृतवर्जिता ह्याप्तकामाः विगततृष्णाः सर्वतो यत्र यस्मिन् , तत्परमार्थतत्त्वं सत्यस्य उत्तमसाधनस्य सम्बन्धि साध्यं परमं प्रकृष्टं निधानं पुरुषार्थरूपेण निधीयत इति निधानं वर्तते । तत्र च येन पथा आक्रमन्ति, स सत्येन वितत इति पूर्वेण सम्बन्धः ॥

कुहकं परवञ्चनम् । अन्तरन्यथा गृहीत्वा बहिरन्यथा प्रकाशनं माया । शाठ्यं विभवानुसारेणाप्रदानम् । अहङ्कारो मिथ्याभिमानः । दम्भो धर्मध्वजित्वम् । अनृतमयथादृष्टभाषणम् । एतैर्दोषवर्जिता इत्यर्थः ॥३.१.६॥