न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ८ ॥
पुनरप्यसाधारणं तदुपलब्धिसाधनमुच्यते — यस्मात् न चक्षुषा गृह्यते केनचिदप्यरूपत्वात् नापि गृह्यते वाचा अनभिधेयत्वात् न चान्यैर्देवैः इतरेन्द्रियैः । तपसः सर्वप्राप्तिसाधनत्वेऽपि न तपसा गृह्यते । तथा वैदिकेनाग्निहोत्रादिकर्मणा प्रसिद्धमहत्त्वेनापि न गृह्यते । किं पुनस्तस्य ग्रहणे साधनमित्याह — ज्ञानप्रसादेन आत्मावबोधनसमर्थमपि स्वभावेन सर्वप्राणिनां ज्ञानं बाह्यविषयरागादिदोषकलुषितमप्रसन्नमशुद्धं सन्नावबोधयति नित्यसंनिहितमप्यात्मतत्त्वं मलावनद्धमिवादर्शम् , विलुलितमिव सलिलम् । तद्यदेन्द्रियविषयसंसर्गजनितरागादिमलकालुष्यापनयनादादर्शसलिलादिवत्प्रसादितं स्वच्छं शान्तमवतिष्ठते, तदा ज्ञानस्य प्रसादः स्यात् । तेन ज्ञानप्रसादेन विशुद्धसत्त्वः विशुद्धान्तःकरणः योग्यो ब्रह्म द्रष्टुं यस्मात् , ततः तस्मात्तु तमात्मानं पश्यते पश्यति उपलभते निष्कलं सर्वावयवभेदवर्जितं ध्यायमानः सत्यादिसाधनवानुपसंहृतकरण एकाग्रेण मनसा ध्यायमानः चिन्तयन् ॥