मुण्डकोपनिषद्भाष्यम्
तृतीयं मुण्डकम्प्रथमः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश ।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥ ९ ॥
यमात्मानमेवं पश्यति, एषः अणुः सूक्ष्मः आत्मा चेतसा विशुद्धज्ञानेन केवलेन वेदितव्यः । क्वासौ ? यस्मिन् शरीरे प्राणः वायुः पञ्चधा प्राणापानादिभेदेन संविवेश सम्यक् प्रविष्टः, तस्मिन्नेव शरीरे हृदये चेतसा ज्ञेय इत्यर्थः । कीदृशेन चेतसा वेदितव्य इत्याह — प्राणैः सहेन्द्रियैः चित्तं सर्वमन्तःकरणं प्रजानाम् ओतं व्याप्तं येन क्षीरमिव स्नेहेन, काष्ठमिव चाग्निना । सर्वं हि प्रजानामन्तःकरणं चेतनावत्प्रसिद्धं लोके । यस्मिंश्च चित्ते क्लेशादिमलवियुक्ते शुद्धे विभवति, एषः उक्त आत्मा विशेषेण स्वेनात्मना विभवति आत्मानं प्रकाशयतीत्यर्थः ॥

बौद्धादेश्चित्तादौ चेतनत्वभ्रमदर्शनाच्चित्तं स्वस्मिन्स्वसंसर्गिणि च चैतन्याभिव्यञ्जकत्वे स्वभावत एव योग्यम् । ततश्चित्ते परमात्मनोऽभिव्यक्तिसम्भवाच्चेतसा ज्ञेयत्वमुच्यत इति संभावनार्थमाह –

प्राणैः सहेन्द्रियैश्चित्तमेति ।

ओतं चैतन्येन सर्वस्व तर्हि चित्ते किमिति ब्रह्म स्वत एवापरोक्षं न भवतीत्यत आह –

यस्मिंश्च चित्त इति ॥३.१.९॥