यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् ।
तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः ॥ १० ॥
य एवमुक्तलक्षणं सर्वात्मानमात्मत्वेन प्रतिपन्नस्तस्य सर्वात्मत्वादेव सर्वावाप्तिलक्षणं फलमाह — यं यं लोकं पित्रादिलक्षणं मनसा संविभाति सङ्कल्पयति मह्यमन्यस्मै वा भवेदिति, विशुद्धसत्त्वः क्षीणक्लेशः आत्मविन्निर्मलान्तःकरणः कामयते यांश्च कामान् प्रार्थयते भोगान् , तं तं लोकं जयते प्राप्नोति तांश्च कामान्सङ्कल्पितान्भोगान् । तस्माद्विदुषः सत्यसङ्कल्पत्वादात्मज्ञमात्मज्ञानेन विशुद्धान्तःकरणं ह्यर्चयेत्पूजयेत्पादप्रक्षालनशुश्रूषानमस्कारादिभिः भूतिकामः विभूतिमिच्छुः । ततः पूजार्ह एवासौ ॥