कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र ।
पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥ २ ॥
मुमुक्षोः कामत्याग एव प्रधानं साधनमित्येतद्दर्शयति — कामान् यः दृष्टादृष्टेष्टविषयान् कामयते मन्यमानः तद्गुणांश्चिन्तयानः प्रार्थयते, सः तैः कामभिः कामैर्धर्माधर्मप्रवृत्तिहेतुभिर्विषयेच्छारूपैः सह जायते ; तत्र तत्र, यत्र यत्र विषयप्राप्तिनिमित्तं कामाः कर्मसु पुरुषं नियोजयन्ति, तत्र तत्र तेषु तेषु विषयेषु तैरेव कामैर्वेष्टितो जायते । यस्तु परमार्थतत्त्वविज्ञानात्पर्याप्तकामः आत्मकामत्वेन परि समन्ततः आप्ताः कामा यस्य, तस्य पर्याप्तकामस्य कृतात्मनः अविद्यालक्षणादपररूपादपनीय स्वेन परेण रूपेण कृत आत्मा विद्यया यस्य, तस्य कृतात्मनस्तु इहैव तिष्ठत्येव शरीरे सर्वे धर्माधर्मप्रवृत्तिहेतवः प्रविलीयन्ति प्रविलीयन्ते विलयमुपयान्ति, नश्यन्तीत्यर्थः । कामाः तज्जन्महेतुविनाशान्न जायन्त इत्यभिप्रायः ॥