मुण्डकोपनिषद्भाष्यम्
तृतीयं मुण्डकम्द्वितीयः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ।
ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ५ ॥
कथं ब्रह्म विशत इति, उच्यते — सम्प्राप्य समवगम्य एनम् आत्मानम् ऋषयः दर्शनवन्तः तेनैव ज्ञानेन तृप्ताः, न बाह्येन तृप्तिसाधनेन शरीरोपचयकारणेन । कृतात्मानः परमात्मस्वरूपेणैव निष्पन्नात्मानः सन्तः । वीतरागाः विगतरागादिदोषाः । प्रशान्ताः उपरतेन्द्रियाः । ते एवंभूताः सर्वगं सर्वव्यापिनम् आकाशवत् सर्वतः सर्वत्र प्राप्य, नोपाधिपरिच्छिन्नेनैकदेशेन ; किं तर्हि, तद्ब्रह्मैवाद्वयमात्मत्वेन प्रतिपद्य धीराः अत्यन्तविवेकिनः युक्तात्मानो नित्यसमाहितस्वभावाः सर्वमेव समस्तं शरीरपातकालेऽपि आविशन्ति भिन्नघटाकाशवदविद्याकृतोपाधिपरिच्छेदं जहति । एवं ब्रह्मविदो ब्रह्म धाम प्रविशन्ति ॥

वीर्यमितिमत्र मिथ्याज्ञानानभिभाव्यतालक्षणोऽतिशयः । आलिङ्गादिति कथम् । इन्द्रजनकगार्गीप्रभृतीनामप्यात्मलाभश्रवणात् । सत्यम् । संन्यासो नाम सर्वत्यागात्मकस्तेषामपि स्वत्वाभिमानाभावादस्त्येवाऽऽन्तरः संन्यासो बाह्यं तु लिङ्गमविवक्षितम् ॥ “न लिङ्गं धर्मकारणम्”(मनु. ६-६६) इति स्मरणात् नैष्कर्म्यसाहित्यं तु विवक्षितम् ॥३.२.४॥३.२.५॥