मुण्डकोपनिषद्भाष्यम्
तृतीयं मुण्डकम्द्वितीयः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
तदेतदृचाभ्युक्तम् —
क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः ।
तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥ १० ॥
अथेदानीं ब्रह्मविद्यासम्प्रदानविध्युपप्रदर्शनेनोपसंहारः क्रियते — तदेतत् विद्यासम्प्रदानविधानम् ऋचा मन्त्रेण अभ्युक्तम् अभिप्रकाशितम् । क्रियावन्तः यथोक्तकर्मानुष्ठानयुक्ताः । श्रोत्रियाः ब्रह्मनिष्ठाः अपरस्मिन्ब्रह्मण्यभियुक्ताः परं ब्रह्म बुभुत्सवः स्वयम् एकर्षिम् एकर्षिनामानमग्निं जुह्वते जुह्वति श्रद्धयन्तः श्रद्दधानाः सन्तः ये, तेषामेव संस्कृतात्मनां पात्रभूतानाम् एतां ब्रह्मविद्यां वदेत ब्रूयात् शिरोव्रतं शिरस्यग्निधारणलक्षणम् । यथा आथर्वणानां वेदव्रतं प्रसिद्धम् । यैस्तु यैश्च तत् चीर्णं विधिवत् यथाविधानं तेषामेव वदेत ॥

ऐतद्ग्रन्थद्वोरकविद्याप्रदानेऽयं विधिराथर्वणिकानामिति प्रकृतपरामर्शकादेतच्धब्दादवगम्यते ग्रन्थद्वारेण विद्यायाः प्रकृतत्वसंभवान्न सर्वत्र ब्रह्मविद्यासंप्रदानमिति सूचयन्नाह –

एतां ब्रह्मविद्यां वदेतेति ॥३.२.१०॥ ॥३.२.११॥

इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां तृतीयमुण्डके द्वितीयः खण्डः ॥३.२॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां तृतीयं मुण्डकं समाप्तम् ॥३॥