तस्य प्रत्यक्षत्वमाह –
स एष इति ।
वैश्वानर इति ।
नरा जीवा विश्वे च ते नराश्च विश्वानराः स एव वैश्वानरः सर्वजीवात्मक इत्यर्थः । विश्वरूपः सर्वप्रपञ्चात्मक इति भेदः ।
उक्तं वस्त्विति ।
आदित्यस्योक्तं माहात्म्यमित्यर्थः ॥ ७ ॥