प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ १३ ॥
सोऽपि मासात्मा प्रजापतिः स्वावयवे अहोरात्रे परिसमाप्यते । अहोरात्रो वै प्रजापतिः पूर्ववत् । तस्यापि अहरेव प्राणः अत्ता अग्निः रात्रिरेव रयिः पूर्ववदेव । प्राणम् अहरात्मानं वै एते प्रस्कन्दन्ति निर्गमयन्ति शोषयन्ति वा स्वात्मनो विच्छिद्यापनयन्ति । के ? ये दिवा अहनि रत्या रतिकारणभूतया सह स्त्रिया संयुज्यन्ते मैथुनमाचरन्ति मूढाः । यत एवं तस्मात्तन्न कर्तव्यमिति प्रतिषेधः प्रासङ्गिकः । यत् रात्रौ संयुज्यन्ते रत्या ऋतौ ब्रह्मचर्यमेव तदिति प्रशस्तत्वात् रात्रौ भार्यागमनं कर्तव्यमित्ययमपि प्रासङ्गिको विधिः ॥

रयिः पूर्ववदिति ।

रयिरन्नं चन्द्रमा इत्यर्थः ।

अह्नः प्राणत्वोक्तिप्रसङ्गादह्नि मैथुनं निषेधति –

प्राणमिति ।

प्रकृतमिति ।

कुतो ह वा इमाः प्रजाः प्रजायन्त इति पृष्टमित्यर्थः । पूर्वोक्तं सर्वमेतदुपयोगितयोक्तं न तु साक्षात्प्रकृतमिति भावः ॥ १३ ॥