प्रजापतिव्रताचरणमात्रेण नादृष्टफलं चन्द्रलोकः प्राप्यते मूर्खाणामपि प्रसङ्गादत आह –
इष्टापूर्तेति ।
चान्द्रमसो ब्रह्मलोक इत्यपरब्रह्मणः प्रजापतेरंशत्वाद्रयिरूपस्य चन्द्रस्य ब्रह्मलोकत्वमित्यर्थः ।
इष्टादिकारिणां तपआदिकमपि चन्द्रलोकप्राप्त्यर्थमपेक्षितमित्यत आह –
येषां तप इति ॥ १५ ॥