प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः ।
एष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ५ ॥
कथम् ? एषः प्राणः अग्निः सन् तपति ज्वलति । तथा एषः सूर्यः सन् प्रकाशते । तथा एषः पर्जन्यः सन् वर्षति । किञ्च मघवान् इन्द्रः सन् प्रजाः पालयति जिघांसत्यसुररक्षांसि । किञ्च, एषः वायुः आवहप्रवहादिभेदः । किञ्च, एषः पृथिवी रयिः देवः सर्वस्य जगतः सत् मूर्तम् असत् अमूर्तं च अमृतं च यत् देवानां स्थितिकारणम् ॥

सूर्यः सन्निति ।

तपतीत्यनुषङ्गः सन्तापयतीत्यर्थः ।

आवहप्रवहादीति ।

आवहादयः सप्त वायुगुणास्तथाभूतः सन्मेघाञ्ज्योतिश्चक्रादींश्च वहतीति शेषः । एष देवः पृथिवी सन्सर्वस्य जगतो धारयिता रयिश्चन्द्रः सन्सर्वं पुष्णातीत्यर्थः ॥ ५ ॥