किञ्चेति ।
यः प्रजापतिर्विराट्सोऽपि त्वमेवेत्यन्वयः । पितुर्गर्भे रेतोरूपेण मातुर्गर्भे पुत्ररूपेण यश्चरति पश्चात्तयोरेव प्रतिरूपः सन्सदृशः सन्यः प्रजायते स त्वमेव प्रजायस इत्यन्वयः ।
प्रतिशब्दार्थ उक्तः –
प्रतिरूपः सन्निति ।
ननु प्राणस्य पुत्ररूपत्वमेवोक्तं न तु पितृमातृरूपत्वं तत्कस्मादत आह –
प्रजापतित्वादेवेति ।
तस्य सर्वात्मत्वादित्यर्थः ।
निष्कृष्टार्थमाह –
सर्वदेहेति ।
अत्रापि निष्कृष्टार्थमाह –
भोक्ता हीति ।
अतस्तवैवेत्यतःशब्दाध्याहारेण योज्यम् ॥ ७ ॥