प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।
तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥ ७ ॥
किञ्च, यः प्रजापतिरपि स त्वमेव गर्भे चरसि, पितुर्मातुश्च प्रतिरूपः सन् प्रतिजायसे ; प्रजापतित्वादेव प्रागेव सिद्धं तव मातृपितृत्वम् ; सर्वदेहदेह्याकृतिच्छन्नः एकः प्राणः सर्वात्मासीत्यर्थः । तुभ्यं त्वदर्थाय इमाः मनुष्याद्याः प्रजास्तु हे प्राण चक्षुरादिद्वारैः बलिं हरन्ति, यः त्वं प्राणैः चक्षुरादिभिः सह प्रतितिष्ठसि सर्वशरीरेषु, अतस्तुभ्यं बलिं हरन्तीति युक्तम् । भोक्तासि यतस्त्वं तवैवान्यत्सर्वं भोज्यम् ॥

किञ्चेति ।

यः प्रजापतिर्विराट्सोऽपि त्वमेवेत्यन्वयः । पितुर्गर्भे रेतोरूपेण मातुर्गर्भे पुत्ररूपेण यश्चरति पश्चात्तयोरेव प्रतिरूपः सन्सदृशः सन्यः प्रजायते स त्वमेव प्रजायस इत्यन्वयः ।

प्रतिशब्दार्थ उक्तः –

प्रतिरूपः सन्निति ।

ननु प्राणस्य पुत्ररूपत्वमेवोक्तं न तु पितृमातृरूपत्वं तत्कस्मादत आह –

प्रजापतित्वादेवेति ।

तस्य सर्वात्मत्वादित्यर्थः ।

निष्कृष्टार्थमाह –

सर्वदेहेति ।

अत्रापि निष्कृष्टार्थमाह –

भोक्ता हीति ।

अतस्तवैवेत्यतःशब्दाध्याहारेण योज्यम् ॥ ७ ॥