प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ।
ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ ८ ॥
किञ्च, देवानाम् इन्द्रादीनाम् असि भवसि त्वं वह्नितमः हविषां प्रापयितृतमः । पितॄणां नान्दीमुखे श्राद्धे या पितृभ्यो दीयते स्वधा अन्नं सा देवप्रदानमपेक्ष्य प्रथमा भवति । तस्या अपि पितृभ्यः प्रापयिता त्वमेवेत्यर्थः । किञ्च, ऋषीणां चक्षुरादीनां प्राणानाम् अथर्वाङ्गिरसाम् अङ्गिरसभूतानामथर्वणाम् — ‘तेषामेव प्राणो वाथर्वा’ ( ? ) इति श्रुतेः — चरितं चेष्टितं सत्यम् अवितथं देहधारणाद्युपकारलक्षणं त्वमेवासि ॥

हविषां प्रापयितृतम इति ।

वह्निशब्दो वहनाद्वह्निरिति यौगिक इत्यर्थः ।

प्रथमा भवतीति ।

यज्ञादिदैवे कर्मणि प्रथमं नान्दीमुखश्राद्धस्यावश्यकर्तव्यत्वात्सा प्रथमेत्यर्थः । ऋष गताविति धातोर्ज्ञानार्थत्वादृषिशब्दस्य ज्ञानजनकचक्षुराद्यर्थत्वमित्यर्थः ।

अङ्गीरसभूतानामिति ।

प्राणाभावेऽङ्गानां शोषदर्शनात्तेषामङ्गिरसत्वमित्यर्थः । मुख्यप्राणस्याथर्वत्त्वं श्रुत्याऽभिहितं यद्यपि चक्षुरादीनामपि तदंशत्वादथर्वशब्दार्थत्वमिति भावः ॥ ८ ॥