हविषां प्रापयितृतम इति ।
वह्निशब्दो वहनाद्वह्निरिति यौगिक इत्यर्थः ।
प्रथमा भवतीति ।
यज्ञादिदैवे कर्मणि प्रथमं नान्दीमुखश्राद्धस्यावश्यकर्तव्यत्वात्सा प्रथमेत्यर्थः । ऋष गताविति धातोर्ज्ञानार्थत्वादृषिशब्दस्य ज्ञानजनकचक्षुराद्यर्थत्वमित्यर्थः ।
अङ्गीरसभूतानामिति ।
प्राणाभावेऽङ्गानां शोषदर्शनात्तेषामङ्गिरसत्वमित्यर्थः । मुख्यप्राणस्याथर्वत्त्वं श्रुत्याऽभिहितं यद्यपि चक्षुरादीनामपि तदंशत्वादथर्वशब्दार्थत्वमिति भावः ॥ ८ ॥