प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।
त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥
किञ्च, इन्द्रः परमेश्वरः त्वं हे प्राण, तेजसा वीर्येण रुद्रोऽसि संहरन् जगत् । स्थितौ च परि समन्तात् रक्षिता पालयिता ; परिरक्षिता त्वमेव जगतः सौम्येन रूपेण । त्वम् अन्तरिक्षे अजस्रं चरसि उदयास्तमयाभ्यां सूर्यः त्वमेव च सर्वेषां ज्योतिषां पतिः ॥

इहेन्द्रशब्देन परमेश्वरत्वमुच्यते मघवानित्यनेन त्विन्द्र उक्त इति भेदमाह –

इन्द्रः परमेश्वर इति ।

वीर्येण संहारसामर्थ्येनेत्यर्थः ।

सौम्येनेति ।

विष्ण्वादिरूपेणेत्यर्थः ॥ ९ ॥