प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।
या च मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥ १२ ॥
किं बहुना ? या ते त्वदीया तनूः वाचि प्रतिष्ठिता वक्तृत्वेन वदनचेष्टां कुर्वती, या च श्रोत्रे या चक्षुषि या च मनसि सङ्कल्पादिव्यापारेण सन्तता समनुगता तनूः, तां शिवां शान्तां कुरु ; मा उत्क्रमीः उत्क्रमणेनाशिवां मा कार्षीरित्यर्थः ॥

वाचि प्रतिष्ठितेति ।

वाच्यमानरूपा तनूः प्रतिष्ठिता । श्रोत्रे व्यानरूपा । चक्षुषि प्राणरूपा । मनसि समानरूपा । स प्राणस्तच्चक्षुः स व्यानस्तच्छ्रोत्रं सोऽपानः सा वाक्स समानस्तन्मन इति श्रुतेरित्यर्थः ।

उत्क्रमणेनेति ।

प्राणोत्क्रमणे सत्यपानाद्यात्मिका वागादिरूपा तनूरशिवा कार्यायोग्या स्यादित्यर्थः ॥ १२ ॥