प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् ।
मातेव पुत्रान्रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३ ॥
किं बहुना । अस्मिंल्लोके प्राणस्यैव वशे सर्वमिदं यत्किञ्चिदुपभोगजातं त्रिदिवे तृतीयस्यां दिवि च यत् प्रतिष्ठितं देवाद्युपभोगलक्षणं तस्यापि प्राण एव ईशिता रक्षिता । अतो मातेव पुत्रान् अस्मान् रक्षस्व पालयस्व । त्वन्निमित्ता हि ब्राह्म्यः क्षात्त्र्यश्च श्रियः ताः त्वं श्रीश्च श्रियश्च प्रज्ञां च त्वत्स्थितिनिमित्तां विधेहि नः विधत्स्वेत्यर्थः । इत्येवं सर्वात्मतया वागादिभिः प्राणैः स्तुत्या गमितमहिमा प्राणः प्रजापतिरेवेत्यवधृतम् ॥

ब्राह्म्य इति ।

ऋगादिमन्त्ररूपा ब्रह्म्यः श्रियः । ऋचः सामानि यजूंषि । सा हि श्रीरमृता सतामिति श्रुतेः । क्षात्र्यः प्रसिद्धा धनाद्यैश्वर्यरूपाः ।

अस्मिन्प्रश्ने निर्धारितं गुणं सङ्गृह्याऽऽह –

इत्येवमिति ।

इदं वरिष्ठत्वादेरुपलक्षणम् ॥ १३ ॥