एवं प्रजापतित्वात्तृत्वादिगुणजातं निर्धार्य प्राणस्योत्पत्त्यादि निर्धारयंस्तदुपासनां विधातुं प्रश्नान्तरमवतारयति –
अथेति ।
वैदर्भिप्रश्नानन्तरमित्यर्थः ।
प्राणैरिति ।
यैर्वागादिप्राणैराकाशादिभिश्च प्राणस्य तत्त्वमुपलब्धं तैरित्यर्थः ।
प्राणस्य पूर्वोक्तमहिमत्वादेवोत्पत्तिशङ्काभावात्कुत इति प्रश्नानुपपत्तिमाशङ्क्याऽऽह –
अपि संहतत्वादिति ।
अनेकात्मकत्वात्सावयवत्वादित्यर्थः ।
शरीरग्रहणमिति ।
शरीरप्रवेश इत्यर्थः ।
प्रातिष्ठत इति ।
आङ्प्रश्लेषाद्दीर्घत्वम् ॥ १ ॥