प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
तस्मै स होवाचातिप्रश्नान्पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥ २ ॥
एवं पृष्टः तस्मै स होवाचाचार्यः । प्राण एव तावद्दुर्विज्ञेयत्वाद्विषमप्रश्नार्हः ; तस्यापि जन्मादि त्वं पृच्छसि ; अतः अतिप्रश्नान्पृच्छसि । ब्रह्मिष्ठोऽसीति अतिशयेन त्वं ब्रह्मवित् , अतस्तुष्टोऽहम् , तस्मात् ते तुभ्यम् अहं ब्रवीमि यत्पृष्टं शृणु ॥

विषमेति ।

विषमं दुर्घटं यथा तथा प्रश्नार्ह इत्यर्थः ।

अतिप्रश्नानिति ।

त्वदन्येषां प्रश्नानतिक्रान्तानन्यदीयप्रश्नागोचरान्सूक्ष्मप्रश्नान्प्रष्टव्यार्थानित्यर्थः ।

अतिशयेनेति ।

अपरब्रह्मापेक्षयाऽतिशयितमुख्यब्रह्मविदसि त्वमिति प्रोत्साहार्थं स्तौतीति भावः ॥ २ ॥