प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
आत्मन एष प्राणो जायते । यथैषा पुरुषे च्छायैतस्मिन्नेतदाततं मनोकृतेनायात्यस्मिञ्छरीरे ॥ ३ ॥
आत्मनः परस्मात्पुरुषादक्षरात्सत्यात् एषः उक्तः प्राणः जायते । कथमित्यत्र दृष्टान्तः । यथा लोके एषा पुरुषे शिरःपाण्यादिलक्षणे निमित्ते च्छाया नैमित्तिकी जायते, तद्वत् एतस्मिन् ब्रह्मण्येतत्प्राणाख्यं छायास्थानीयमनृतरूपं तत्त्वं सत्ये पुरुषे आततं समर्पितमित्येतत् । छायेव देहे मनोकृतेन मनःकृतेन मनःसङ्कल्पेच्छादिनिष्पन्नकर्मनिमित्तेनेत्येतत् । वक्ष्यति हि पुण्येन पुण्यमित्यादि । ‘तदेव सक्तः सह कर्मणैति’ (बृ. उ. ४ । ४ । ६) इति श्रुत्यन्तरात् । आयाति आगच्छत्यस्मिञ्शरीरे ॥

अत्र दृष्टान्त इति ।

तस्यानृतत्वार्थं दृष्टान्त उच्यत इत्यर्थः ।

छायेति ।

प्रतिबिम्बादिरूपेत्यर्थः ।

एतस्मिन्निति ।

प्रकृते जनक आत्मनि ब्रह्मणीत्यर्थः ।

कथमायातीत्यस्योत्तरमाह –

मनोकृतेनेति ।

संधिरार्षः ।

तदेव सक्त इति ।

अस्य कर्मणो मनो यस्मिन्फले निषक्तं संसक्त आसक्तः संस्तदेव फलं कर्मणा सहैतीति श्रुतौ च शरीरग्रहणं कर्मसाध्यमुक्तमित्यर्थः ॥ ३ ॥