“दिव्यो ह्यमूर्तः पुरुषः, अक्षरात्परतः परः” (मु. उ. २ । १ । २) “एतस्माज्जायते प्राणः”(मु. उ. २ । १ । ३) इति मन्त्रावत्र संवादयितुं तद्गतविशेषणान्याह –
परस्मादिति ।
अत्र दृष्टान्त इति ।
तस्यानृतत्वार्थं दृष्टान्त उच्यत इत्यर्थः ।
छायेति ।
प्रतिबिम्बादिरूपेत्यर्थः ।
एतस्मिन्निति ।
प्रकृते जनक आत्मनि ब्रह्मणीत्यर्थः ।
कथमायातीत्यस्योत्तरमाह –
मनोकृतेनेति ।
संधिरार्षः ।
तदेव सक्त इति ।
अस्य कर्मणो मनो यस्मिन्फले निषक्तं संसक्त आसक्तः संस्तदेव फलं कर्मणा सहैतीति श्रुतौ च शरीरग्रहणं कर्मसाध्यमुक्तमित्यर्थः ॥ ३ ॥