आत्मानां वा प्रविभज्येत्यस्योत्तरं दृष्टान्तेनाऽऽह –
यथेति ।
इतरानिति ।
इतरांश्चक्षुरादीन्यथास्थानमक्ष्यादिगोलकस्थाने सन्निधत्ते सन्निधापयति । आत्मभेदान्मुख्यप्राणस्य वृत्तिभेदान्प्राणापानादीन्पाय्वादिषु नियुङ्क्त इति । अत्र श्रुत्या नेत्रादीनां चक्षुरादिस्थानानां स्पष्टत्वात्तानि नोक्तानीति द्रष्टव्यम् ॥ ४ ॥
यः कुर्वंस्तिष्ठति तं सन्निधत्ते विनियुङ्क्त इत्यर्थः ।