मध्य इति ।
प्राणापानयोर्मध्ये या नाभिस्तस्यां समानः प्रतितिष्ठतीत्यन्वयः ।
समानशब्दार्थमुक्तं श्रुत्यारूढं करोति –
एष हीति ।
आत्माग्नाविति ।
अत्मनि शरीरेऽग्निर्जाठराग्निस्तस्मिन्नित्यर्थः ।
एवं हुतपदबलादन्नस्य हविष्ट्वं जाठराग्नेराहवनीयत्वं प्रक्षेपस्य होमत्वं चोक्त्वा शीर्षण्यसप्तद्वारान्निर्गतानां ज्ञानानामर्चिष्ट्वं वक्तुं तस्मादेता इति वाक्यं व्याचष्टे –
तस्मादिति ।
प्राप्तादिति ।
अग्नेरौदर्याद्धेतोः प्राप्तपरिपाकादन्नरसादन्ननाडीद्वारा देहं प्राप्तं नाडीस्थानं हृदयं प्राप्तादन्नरसादिति शेषः । दर्शनद्वयं श्रवणद्वयं प्राणद्वयं मुखं चैकं रसनमिति सप्तार्चिषः । जाठराग्निपाकजन्यान्नरसबलेन दर्शनादीनां प्रवृत्तेस्तेषु तदर्चिष्ट्वारोप इत्यर्थः ॥ ५ ॥