व्यानस्य नाडीरूपं स्थानं दर्शयितुं नाडीनामुत्पत्तिस्थानं वक्तुमाह –
हृदीत्यादिना ।
हृदयस्य लिङ्गात्मस्थानत्वोक्तेः प्रयोजनं तु केचिद्योगिनो नाभिकन्दस्य नाड्युत्पत्तिस्थानत्वं वदन्ति तन्निराकरणं, तत्रैव लिङ्गात्मनः सञ्चरणार्था नाड्यः । नाडीभिः प्रत्यवसृप्येत्यादिश्रुतेः । ततश्च लिङ्गात्मनो हृदयस्थानत्वे तत्सञ्चारमार्गभूतनाडीनामपि तदेवोत्पत्तिस्थानमन्यथा प्रदेशान्तरस्थनाडीनां तन्मार्गत्वायोगाद्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्त इति श्रुतेश्चेति ।
लिङ्गशरीरस्याऽऽत्मत्वमात्मोपाधित्वेन तद्योगादित्याह –
आत्मना संयुक्त इति ।
यस्माल्लिङ्गात्मा हृदि वर्तते तत्सञ्चारमार्गभूतनाडीनामपि तदेव स्थानमित्याह –
अत्रेति ।
नाडीनां शरीरविधारकत्वेन प्रसिद्धत्वं वक्तुमेतदिति विशेषणम् । तस्य स्पष्टत्वाद्भाष्ये न व्याख्यातम् ।
एकैकस्या नाड्याः शाखानाड्यः शतं शतं भवतीत्याह –
तासामिति ।
ततश्च शतोत्तरमयुतं शाखानाड्य इत्यर्थः ।
शाखानाडीनां च प्रत्येकं द्व्यधिकसप्ततिसहस्राणि प्रतिशाखानाड्यः सन्तीत्याह –
पुनरपीति ।
सप्ततिरितिपदस्य सङ्ख्याप्रधानत्वे सहस्राणीत्यस्य तेन सामानाधिकरण्यायोगात्षष्ठ्यन्ततया व्याचष्टे –
सहस्राणामिति ।
प्रतिशाखेति ।
प्रतिशाखाभ्यो निर्गता अल्पशाखाः प्रतिशाखाः ।
द्वासप्ततिरित्यत्र वीप्सार्थमाह –
प्रतिप्रतीति ।
प्रतिप्रतिनाडीशतमित्यनन्तरमेकैकस्या इत्यनुषङ्गः । तथा च प्रतिप्रतिनाडीशतमेकैकस्या नाड्याः प्रतिशाखानाडीनां द्वासप्ततिसहस्राणि भवन्तीत्यर्थः । तथा च मूलशाखाप्रतिशाखानाड्यो मिलित्वा द्वासप्ततिकोटयो द्वासप्ततिलक्षाणि दशसहस्रं च शतद्वयमेका च भवन्तीति द्रष्टव्यम् ।
एवं नाडीरुक्त्वा व्यानस्य तत्स्थानत्वमाह –
अस्त्विति ।
सूक्ष्मासु नाडीषु विद्यमानस्य व्यानस्य कथं व्यापकत्वमित्याशङ्क्य नाडीनां सर्वदेहव्याप्तेस्तत्स्थस्यापि व्यानस्य तद्वारा व्याप्तिरित्याह –
आदित्यादिवेति ।
यथाऽऽदित्याद्विनिर्गत्य रश्मयः सर्वतो गतास्तथा हृदयात्सर्वतोगामिन्यो नाड्यस्ताभिरिति योज्यम् ।
सामान्येन सर्वशरीरव्याप्तावपि विशेषस्थानमाह –
सन्धीति ।
प्राणेति ।
उच्छ्वासनिश्वासयोः प्राणापानवृत्त्योरभावे व्यानवृत्तिरुद्भवतीत्यर्थः ।
वीर्यवदिति ।
अथ यः प्राणापानयोः सन्धिः स व्यान इत्युक्त्वा यानि वीर्यवन्ति कर्मणि बलवता पुरुषेण साध्यानि धनुरायमनादीनि तान्यप्राणन्ननपानन्करोतीति श्रुत्यन्तरोक्तेरित्यर्थः ॥ ६ ॥