कथं बाह्यमभिधत्ते कथमध्यात्ममित्यस्योत्तरमाह –
आदित्य इति ।
या देवता प्रसिद्धेति ।
अग्निदेवता पृथिव्येव यस्याऽऽयतनमग्निर्लोक इति श्रुतेरग्निसम्बद्धावगमादित्यर्थः ।
अवष्टभ्येत्यनन्तरमध्याहारेण वाक्यं पूरयति –
अध एवापकर्षणेनेति ।
वृत्तार्थं स्तम्भादेरूर्ध्वमुखेन निखातस्य परितो विद्यमानरज्जुभिरध एवापकर्षणेन पतनाभाववदध एवापकर्षणेन शरीरस्य पतनाभावः सिध्यतीत्यर्थः ।
अनुग्रहमिति ।
शरीरधारणलक्षणमित्यर्थः ।
अन्यथेति ।
पृथिवीदेवताया विधारणाकरणे गुरुत्वादपानेनाध आकर्षणाच्च सावकाशे भूम्यादिपतनप्रतिबन्धकाभावस्थले पतेदित्यर्थः ।
अन्तरा यदाकाश इति वाक्यं व्याचष्टे –
यदेतदिति ।
यदिति क्लीबत्वं छान्दसमित्याह –
य आकाश इति ।
मञ्चस्थवदिति ।
मञ्चाः क्रोशन्तीत्यत्र मञ्चशब्देन मञ्चस्था यथा लक्ष्यन्ते तथाऽऽकाशशब्देन तत्स्थो वायुर्लक्ष्यत इत्यर्थः ।
स समान इति ।
सामानाढिकर्ण्यमनुग्राह्यानुग्राहकयोरभेदोपचारादित्याह –
समानमनुगृह्णान इति ।
एवमुत्तरत्राप्यनुग्रहे हेतुमाह –
समानस्येति ।
शरीरान्तराकाशस्थत्वं समानस्य द्यावापृथिविव्यन्तराकाशस्थत्वं बाह्यवायोरित्यन्तराकाशस्थत्वं तयोस्तुल्यमित्यर्थः ।
वायुर्व्यान इत्यत्र त्वन्तराकाशस्थत्वं विशेषरहितं वायुसामान्येन समुच्चीयत इति न पूर्वाभेद इत्याह –
सामान्येनेति ॥ ८ ॥